|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.156. अध्यायः 156
Mahabharata - Drona Parva - Chapter Topics
भीमेन दुर्मददुष्कर्णादिवधः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-156-0x(4679)(51855)
तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि।
अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा॥ 7-156-1(51856)
दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम।
यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत॥ 7-156-2(51857)
निहते सैन्धवे वीरे भूरिश्रवसि चैव ह।
यदाऽभ्यगान्महातेजाः पाञ्चालानपराजितः॥ 7-156-3(51858)
किममन्यत दुर्धर्षे प्रविष्टे शत्रुतापने।
दुर्योधनस्तु किं कृत्यं प्राप्तकालममन्यत॥ 7-156-4(51859)
के च तं वरदं वीरमन्वयुर्द्विजसत्तमम्।
के चास्य पृष्ठतोऽगच्छन्वीराः शूरस्य युध्यतः।
के पुरस्तादवर्तन्त निघ्नन्तः शास्त्रवान्रणे॥ 7-156-5(51860)
मन्येऽहं पाण्डवान्सर्वान्भारद्वाजशरार्दितान्।
शिशिरे कम्पमाना वै कृशा गाव इव प्रभो॥ 7-156-6(51861)
प्रविश्य स महेष्वासः पाञ्चालानरिमर्दनः।
कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान्॥ 7-156-7(51862)
सर्वेषु योधेषु च सङ्गतेषु
रात्रौ समेतेषु महारथेषु।
संलोड्यमानेषु पृथग्बलेषु
के वस्तदानीं मतिमन्त आसन्॥ 7-156-8(51863)
हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि।
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान्॥ 5-156-10 तेषां संलोड्यमानानां पाण्डवैर्हतचेतसाम्।
अन्धे तमसि मग्नानामभवत्का मतिस्तदा॥ 7-156-9(51864)
प्रहृष्टांश्चाप्युदग्रांश्च सन्तुष्टांश्चैव पाण्डवान्।
शंससीहाप्रहृष्टांश्च विभ्रष्टांश्चैव मामकान्॥ 7-156-11(51865)
कथमेषां तदा तत्र पार्थानामपलायिनाम्।
प्रकाशमभवद्रात्रौ कथं कुरुषु सञ्जय॥ 7-156-12(51866)
सञ्जय उवाच। 7-156-13x(4680)
रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे।
द्रोणमभ्यद्रवन्सर्वे पाण्डवाः सह सोमकैः॥ 7-156-13(51867)
ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान्।
सम्प्रैषयत्प्रेतलोकं सर्वानिषुभिराशुगैः॥ 7-156-14(51868)
तस्य प्रमुखतो राजन्येऽवर्तन्त महारथाः।
तान्सर्वान्प्रेषयामास पितृलोकं स भारत॥ 7-156-15(51869)
प्रमथ्नन्तं तदा वीरान्भारद्वाजं महारथम्।
अभ्यवर्तत सङ्क्रुद्धः शिबी राजा प्रतापवान्॥ 7-156-16(51870)
तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथम्।
विव्याध दशभिर्द्रोणः सर्वपारशवैः शितैः॥ 7-156-17(51871)
तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः।
सारथिं चास्य भुल्लेन स्मयमानो न्यपातयत्॥ 7-156-18(51872)
तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनः।
अथाऽस्य सशिरस्त्राणं शिरः कायादपाहरत्॥ 7-156-19(51873)
ततोऽस्य सारथिं क्षिप्रमन्यं दुर्योधनोऽदिशत्।
स तेन सङ्गृहीताश्वः पुनरभ्यद्रवद्रिपून्॥ 7-156-20(51874)
कलिङ्गानामनीकेन कालिङ्गस्य सुतो रणे।
पूर्वं पितृवधात्क्रुद्धौ भीमसेनमुपाद्रवत्॥ 7-156-21(51875)
स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः।
विशोकं त्रिभिरानर्च्छद्वजमेकेन पत्रिणा॥ 7-156-22(51876)
कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः।
रथाद्रथमभिद्रुत्य मुष्टिनाऽभिजघान ह॥ 7-156-23(51877)
तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा।
सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक्॥ 7-156-24(51878)
`तस्मिन्हते तदा तेन सिंहनादो महानभूत्।
पाञ्चालानां महाराज साधुसाध्विति पाण्डवम्'॥ 7-156-25(51879)
तं कर्णो भ्रातरश्चास्य नामृष्यन्त परन्तप।
ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः॥ 7-156-26(51880)
ततः शत्रुरथं त्यक्त्वा भीमो द्रुमरथं गतः।
द्रुमं चास्यन्तमनिशं मुष्टिना समपोथयत्॥ 7-156-27(51881)
`यथा काचमणिर्न्यस्तो मुष्टिनैकेन लीलया।
स हतः सर्वथा चूर्णो रक्तमेवोदपद्यत॥ 7-156-28(51882)
तथा चूर्णमभूत्तत्र कर्णभ्राता द्रुमस्तथा'।
स तदा पाण़्डुपुत्रेण बलिनाऽभिहतोऽपतत्॥ 7-156-29(51883)
तं निहत्य महाराज भीमसेनो महाबलः।
जयरातरथं प्राप्य मुहुः सिंह इवानदत्॥ 7-156-30(51884)
जयरातं तु चरणे गृह्य भीमो महाबलः।
सूतं चास्य महाबाहुर्गृह्य राजंस्तथैव च॥ 7-156-31(51885)
पादयोर्गृह्य तौ वीरौ भीमः कर्णस्य पश्यतः।
भूमावाविद्ध्य जघ्ने स तौ च प्राणैर्व्ययुज्यताम्॥ 7-156-32(51886)
कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत्।
ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः॥ 7-156-33(51887)
कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः।
तामापतन्तीं चिच्छेद शकुनिस्तैलपायिना॥ 7-156-34(51888)
एतत्कृत्वा महत्कर्म रणेऽद्भुतपराक्रमः।
पुनः स्वरथमास्थाय दुद्राव तव वाहिनीम्॥ 7-156-35(51889)
तमायान्तं जिघांसन्तं भीमं क्रुद्धमिवान्तकम्।
न्यवारयन्महाबाहुं तव पुत्रा विशाम्पते।
महता शरवर्षेण च्छादयन्तो महारथाः॥ 7-156-36(51890)
दुर्मदस्य ततो भीमः प्रहसन्निव संयुगे।
सारथिं च हयांश्चैव शरैर्निन्ये यमक्षयम्॥ 7-156-37(51891)
दुर्मदस्तु ततो यानं दुष्कर्णस्यावचक्रमे।
तावेकरथमारूढौ भ्रातरौ परतापनौ। 7-156-38(51892)
सङ्ग्रामशिरसो मध्ये भीमं द्वावप्यधावताम्।
यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम्॥ 7-156-39(51893)
ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ।
रथमेकं समारुह्य भीमं बाणैरविध्यताम्॥ 7-156-40(51894)
ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य च।
कृपस्य सोमदत्तस्य बाह्लीकस्य च पाण्डवः॥ 7-156-41(51895)
दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम्।
पादप्रहारेण धरां प्रावेशयदरिन्दमः॥ 7-156-42(51896)
ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ।
मुष्टिनाऽऽहत्य सङ्क्रुद्धौ ममर्द चरणेन ह॥ 7-156-43(51897)
ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाऽब्रुवन्।
रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु युध्यति॥ 7-156-44(51898)
एवमुक्त्वा पलायन्ते सर्वे भारत पार्थिवाः।
विसंज्ञा वाहयन्वाहान्न च द्वौ सह धावतः॥ 7-156-45(51899)
ततो बले भृशलुलिते निशामुखे
सुपूजितो नृपवृषभैर्वृकोदरः।
महाबलः कमलविबुद्धलोचनो
युधिष्ठिरं नृपतिमपूजयद्बली॥ 7-156-46(51900)
ततो यमौ द्रुपदविराटकेकया
युधिष्ठिरश्चापि परां मुदं ययुः।
वृकोदरं भृशमनुपूजयंश्च ते
यथान्धके प्रतिनिहते हरं सुराः॥ 7-156-47(51901)
ततः सुतास्ते वरुणात्मजोपमा
रुपान्विताः सह गुरुणा महात्मना।
वृकोदरं सरथपदातिकुञ्जरा
युयुत्सवो भृशमभिपर्यवारयन्॥ 7-156-48(51902)
`ततो यमौ द्रुपदसुताः ससैनिका
युधिष्ठिरद्रुपदविराटसात्वताः।
घटोत्कचो जयविजयौ द्रुमो वृकः
ससृञ्जयास्तव तनयानवारयन्'॥ 7-156-49(51903)
ततोऽभवत्तिमिरघनैरिवावृते
महाभये भयदमतीव दारुणम्।
निशामुखे वृकबलगृध्रमोदनं
महात्मना नृपवर युद्धमद्भुतम्॥ ॥ 7-156-50(51904)
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे षट्पञ्चाशदधिकशततमोऽध्यायः॥ 156 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-156-1 गावः गाः॥ 5-156- कमलविबुद्धलोचनो विलसत्पद्मनेत्रः॥ 5-156- गुरुणा द्रोणेन॥ 5-156- तिमिराण्येव घनास्तैः॥ 5-156- षट्पञ्चाशदधिकशततमोऽध्यायः॥ 156 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|